1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
  4. Shri Shakambhari Ashtakam

देवी शाकंभरीला समर्पित स्तुतिपर स्तोत्र ''श्री शाकंभर्यष्टकम्''

॥ श्री शाकंभर्यष्टकम् ॥
शक्तिः शांभवविश्र्वरुपमहिमा मांगल्यमुक्तामणि

घंटा शुलमसिं लिपिं च दधतीं दक्षैश्र्चतुर्भिः करैः ॥

वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा

चक्रं खेटकमंधकारिदयिता त्रैलोक्यमाता शिवा ॥ १ ॥

देवी दिव्यसरोजपादयुगुले मंजुक्कणन्नुपुरा

सिंहारुढकलेवरा भगवती व्याघ्रांबरावेष्टिता ॥

वैडूर्यादि महार्घरत्नविलसन्नक्षत्रमालोज्ज्वला

वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २ ॥

ब्रह्माणी च कपालिनी सुयुवती राद्री त्रिशूलान्विता

नाना दैत्यनिबर्हिणी नृशरणा शंखासिखेटायुधा ॥

भेरी शंख मृदंग घोषमुदिता शूलिप्रिया चेश्र्वरी

माणिक्याढ्य किरीटकांतवदना त्रैलोक्यमाता शिवा ॥ ३ ॥

वंदे देवी भवार्तिभंजनकरी भक्तप्रिया मोहिनी

मायामोहमदान्धकारशमनी मत्प्राणसंजीवनी ॥

यंत्रं मंत्रं जपौ तपो भगवती माता पिता भ्रातृका

विद्या बुद्धिधृती गतिश्र्च सकल त्रैलोक्यमाता शिवा ॥ ४ ॥

श्रीमातस्त्रिपुरे त्वमलणिलया स्वर्गादिलोकांतरे

पाताले जलवाहिनी त्रिपथगा लोकत्रये शंकरी ॥

त्वं चाराघकभाग्यसंपदविनी श्रीमूर्ध्नि लिंगांकिता

त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ५ ॥

श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पांतरे डाकिनीं

वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीं ॥

नानारत्नविभूषणां त्रिनयनां दिव्यांबरावेष्टितां

वंदे त्वां भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ६ ॥

नैर्ऋत्यां दिशि पत्रतीर्थममलम मूर्तित्रये वासिनी

सांमुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकं ॥

गंगादित्रयसंगमे सकुतुकं पीतोदके पावने

त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ७ ॥

द्वारे तिष्ठति वक्रतुंडगणपः क्षेत्रस्य पालस्ततः

शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी ॥

मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी

त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ८ ॥

शाकंभर्यष्टकमिदं यः पठेत्प्रयतः पुमान् ।

स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९ ॥

॥ इति श्रीमच्छंकराचार्यविरचितं शाकम्भर्यष्टकं संपूर्णम् ॥